पारम्परिकज्ञानस्य प्रामाणिकं स्थानम्

वृत्तिग्रन्थाः

        सूत्रार्थस्य अवगमनार्थं वार्तिके महाभाष्ये च चर्चितानां विषयाणां सुलभतया ज्ञानार्थं च कैश्चित् अल्पकायाः ग्रन्थाः लिखिताः। वृत्तिग्रन्थेषु पदच्छेदः, पदार्थः, विग्रहः, अनुवृत्तिः, उदाहरणम्, प्रत्युदाहरणम् इत्यादयः अंशाः भवन्ति। ते ग्रन्थाः ‘वृत्तिः’ इति पदेन व्यवह्रियन्ते। तेषु काशिकावृत्तिः, शब्दकौस्तुभः च प्रधानौ।

आचार्यः वामनः, आचार्यः जयादित्यः काशिकावृत्तिः

वामनः जयादित्यः च आभ्यां लिखिता काशिकावृत्तिः। वृत्तिग्रन्थेषु ‘काशिकावृत्तिः’ प्राचीना प्रसिद्धा च। काशिकावृत्तौ सूत्राणां विवरणम् अष्टाध्यायीसूत्रक्रमेण वर्तते। काशिकावृत्तौ भाष्यादयः यथा अवलम्बिताः तथा पाणिनीयेतरकातन्त्रादिव्याकरणस्य अपि आश्रयणं कृतं वर्तते। तद्वारा येषां शब्दानां पाणिनीयव्याकरणद्वारा  व्युत्पादनं न शक्यते तादृशाः शब्दाः अपि अनेन व्युत्पादिताः वर्तन्ते। काशिकावृत्तेः व्याख्यानद्वयं प्रसिद्धम्। न्यासः (काशिकाविवरणपञ्चिका इति नामान्तरम्) पदमञ्जरी च। जिनेन्द्रबुद्धिः न्यासव्याख्यानम् अलिखत्। इयं काशिकायाः प्राचीना व्याख्या। हरदत्तमिश्रः पदमञ्जरीव्याख्यानम् अलिखत्। अयं द्रविडदेशीयः आसीत्।  

भट्टोजिदीक्षितः शब्दकौस्तुभः

        अष्टाध्यायीक्रमेण लिखितेषु वृत्तिग्रन्थेषु भट्टोजिदीक्षितस्य शब्दकौस्तुभः[1] अपि प्रसिद्धः। अयं आन्ध्रदेशीयः आसीत्। सम्प्रति शब्दकौस्तुभः सम्पूर्णतया न उपलभ्यते। किन्तु भागशः एव प्राप्यते। अत्र अष्टाध्यायीक्रमेण भाष्यगतविचाराः स्वतन्त्रविचाराः च उपस्थापिताः। भट्टोजिदीक्षितः व्याकरणस्य महान् विद्वान् आसीत्। अनेन अनेके ग्रन्थाः व्याकरणसम्बद्धाः लिखिताः। ते च –

  • शब्दकौस्तुभः
  • वैयाकरणसिद्धान्तकारिकाः
  • वैयाकरणसिद्धान्तकौमुदी
  • प्रौढमनोरमा

काशिकावृत्तिं शब्दकौस्तुभं च अतिरिच्य अन्येऽपि अनेके वृत्तिग्रन्थाः वर्तन्ते। तासु काश्चन वृत्तयः इत्थं वर्तन्ते –

  • भागवृत्तिः – विमलमतिः
  • भाषावृत्तिः – पुरुषोत्तमदेवः
  • दुर्घटवृत्तिः – शरणदेवः
  • अष्टाध्यायीभाष्यम् – स्वामीदयानन्दः

[1] शब्दकौस्तुभः वृत्तिग्रन्थेषु यद्यपि अन्तर्भाव्यते तथापि  अत्र केवलं सूत्राणां वृत्तिः वर्तते। भाष्यस्थविचाराणां विमर्शःस्वतन्त्रविचाराः  वर्तन्ते।