पारम्परिकज्ञानस्य प्रामाणिकं स्थानम्

प्रक्रियाग्रन्थाः

अष्टाध्यायीसूत्रक्रमं परित्यज्य रूपसिद्धेः बोधनाय सूत्राणि प्रकरणशः विभक्तानि। तद्यथा सन्धिसम्बद्धानि सूत्राणि अष्टाध्याय्यां तत्र तत्र विद्यमानानि सङ्गृह्य सन्धिप्रकरणं कृतम्। एवम् अन्यानि प्रकरणानि रचितानि । एतादृशाः ग्रन्थाः यत्र प्रक्रियामाश्रित्य सूत्राणि उपन्यस्तानि ते प्रक्रियाग्रन्थाः इति प्रसिद्धाः। तादृशेषु प्रक्रियाग्रन्थेषु वैयाकरणसिद्धान्तकौमुदी लघुसिद्धान्तकौमुदी च प्रधाने ।

प्रक्रियाक्रमेण सूत्राणाम् उपस्थापनस्य आरम्भः धर्मकीर्तिना रूपावतारग्रन्थे कृतः। धर्मकीर्तिः बौद्धदार्शनिकः आसीत्। ततः प्रक्रियाग्रन्थेषु रामचन्द्राचार्यस्य ‘प्रक्रियाकौमुदी’ इति ग्रन्थः प्रसिद्धः अभवत्। अस्मिन् ग्रन्थे वैदिकस्वरप्रक्रियायाः सूत्राणि न व्याख्यातानि। किन्तु लौकिकभागस्य प्रायः सर्वाणि सूत्राणि व्याख्यातानि सन्ति। अस्य ग्रन्थस्य प्रेरणया एव भट्टोजिदीक्षितेन सिद्धान्तकौमुदी रचिता। तत्र प्रक्रियाकौमुद्यां विद्यमानाः सैद्धान्तिकदोषाः च परिहृताः।

भट्टोजिदीक्षितःवैयाकरणसिद्धान्तकौमुदी

        भट्टोजिदीक्षितस्य वैयाकरणसिद्धान्तकौमुदी प्रक्रियाग्रन्थेषु अत्यन्तं प्रसिद्धा। अस्मिन् ग्रन्थे ७३ प्रकरणानि सन्ति। अत्र सर्वाणि अपि अष्टाध्याय्यां विद्यमानानि सूत्राणि व्याख्यातानि। प्राचीनानां व्याख्यानेषु विद्यमानाः दोषाः भाष्यविरोधाश्च अस्मिन् ग्रन्थे परिहृताः। तस्मात् व्याकरणस्य अवगमनार्थं सिद्धान्तकौमुदी प्रमाणत्वेन परिगण्यते। सिद्धान्तकौमुद्याः बहूनि व्याख्यानानि सन्ति। स्वयं भट्टोजिदीक्षतेन एव एकं व्याख्यानं लिखितं वर्तते। प्रसिद्धानि व्याख्यानानि इत्थं वर्तन्ते –

  • भट्टोजिदीक्षितस्य – प्रौढमनोरमा
  • नागेशभट्टस्य – लघुशब्देन्दुशेखरः
  • वासुदेवदीक्षितस्य – बालमनोरमा
  • ज्ञानेन्द्रसरस्वतेः – तत्त्वबोधिनी

प्रौढमनोरमायाः उपरि हरिदीक्षितस्य  ‘शब्दरत्नम्’ इति व्याख्यानं प्रसिद्धं वर्तते। नागेशभट्टस्य लघुशब्देन्दुशेखरे सिद्धान्तकौमुद्याः व्याख्यानं स्वतन्त्रविचाराश्च वर्तन्ते। अस्य बृहच्छब्देन्दुशेखराख्यः ग्रन्थः अपि वर्तते। नागेशभट्टः भट्टोजिदीक्षितस्य पौत्रस्य शिष्यः आसीत् । 

वरदराजभट्टाचार्यः लघुसिद्धान्तकौमुदी

        अष्टाध्याय्यां विद्यमानानि सर्वाणि सूत्राणि सिद्धान्तकौमुद्यां व्याख्यातानि इति उक्तम्। तत्र प्रसिद्धानि १२७५ सूत्राणि संगृह्य वरदराजभट्टाचार्येण ‘लघुसिद्धान्तकौमुदी’ रचिता। एवमनेन मध्यसिद्धान्तकौमुदी, सारसिद्धान्तकौमुदी इति ग्रन्थौ अपि लिखितौ।

नागेशभट्टः परिभाषेन्दुशेखरः

         नागेशभट्टस्य परिभाषेन्दुशेखरः व्याकरणे प्रसिद्धः अपरः ग्रन्थः। अत्र सूत्राणाम् अवगमनार्थम् अपेक्षिताः नियमाः (परिभाषाः) व्याख्याताः सन्ति। याः परिभाषाः अष्टाध्यायां साक्षात् उल्लिखिताः तासां विवरणमत्र नास्ति। अन्याः याः परिभाषाः भाष्यादौ उल्लिखिताः, लोकन्यायसिद्धाः च ताः अत्र सङ्गृह्य व्याख्याताः। अस्मिन् ग्रन्थे १३३ परिभाषाः शास्त्रत्वसम्पादनोद्देशप्रकरणं बाधबीजप्रकरणं तन्त्रशेषप्रकरणम् इति प्रकरणत्रये विभज्य व्याख्याताः वर्तन्ते।