पारम्परिकज्ञानस्य प्रामाणिकं स्थानम्

अन्ये ग्रन्थाः

पाणिनीयशिक्षा

वेदाङ्गेषु शिक्षा अपि परिगण्यते। वर्णोच्चारणसम्बद्धाः विचाराः स्वरः स्थानं प्रयत्नः इत्यादयः शिक्षाग्रन्थेषु प्राधान्येन दृश्यन्ते। तादृशेषु ग्रन्थेषु पाणिनीयशिक्षा अपि अन्यतमा। अयं ग्रन्थः न पाणिनिना लिखितः इति वर्तते विदुषाम् आशयः।

धातुपाठः

पाणिनीयव्याकरणस्य अवगमनार्थं धातूनाम् अवगमनमपि प्रधानम्। धातुपाठाः अपि बहुभिः वैयाकरणैः निर्मिताः वर्तन्ते। तेषु पाणिनीयधातुपाठः अन्यतमः। तत्र धातूनाम् उल्लेखनं पाणिनिना कृतम्। अर्थः भीमसेनाख्येन लिखितः इति विद्वांसः मन्यन्ते। अस्मिन् धातुपाठे उपद्विसहस्रधातवः वर्तन्ते। एतं धातुपाठमाश्रित्य अनेके वृत्तिग्रन्थाः अपि लिखिताः सन्ति। तेषु क्षीरस्वामिनः क्षीरतरङ्गिणी,  माधवीयधातुवृत्तिः इत्यदयः प्रसिद्धाः।

गणपाठः

पाणिनेः सूत्रेषु अनेके गणाः उल्लिख्यन्ते। तस्मिन् गणे पठितेभ्यः किञ्चित् कार्यं विधत्ते पाणिनिः। तेन सूत्राणां लाघवं सिद्ध्यति। तेषु गणेषु ये शब्दाः अन्तर्भवन्ति तेषाम् उल्लेखः पाणिनीयगणपाठे भवति।  गणपाठः व्याकरणस्य अविभाज्यम् अङ्गम् अस्ति।

लिङ्गानुशासनम्

शब्दानां लिङ्गनिर्णये क्लेशः संस्कृते भवत्येव। तत्र सौलभ्यसम्पादनार्थं पाणिनिना लिङ्गानुशासनमपि लिखितम्। अस्मिन् ग्रन्थे पञ्च अधिकाराः वर्तन्ते – पुंलिङ्गाधिकारः, नपुंसकलिङ्गाधिकारः, स्त्रीपुंसाधिकारः, पुंनपुंसकाधिकारः इति। सूत्ररूपेण अत्र विषयः प्रस्तुतः अस्ति।

उणादिसूत्राणि

वैयाकरणेषु शाकटायनः सर्वे शब्दाः धातुजाः इति अङ्गीकरोति। ये शब्दाः पाणिनिना न व्युत्पादिताः प्रकृतिप्रत्ययविभागेन तेषां शब्दानां व्युत्पादनं उणादिषु क्रियते। सम्प्रति उपलभ्यमानानि पञ्चपादयुक्तानि उणादिसूत्राणि शाकटायनेन निर्मितानि इति प्रसिद्धिः। उणादिसूत्राणि सम्प्रति सिद्धान्तकौमुद्याः कृदन्तप्रकरणे उल्लिख्यन्ते।

लक्ष्यप्रधानकाव्यानि

व्याकरणशास्त्रीयनियमानाम् अन्वयप्रदर्शनार्थं बहुभिः काव्यानि लिखितानि। येषां काव्यानाम्, सूत्राणां लक्ष्यप्रदर्शनमेव लक्ष्यं, तादृशानि काव्यानि लक्ष्यप्रधानकाव्यनि इति परिगण्यन्ते। तादृशेषु काव्येषु भट्टिकवेः रावणवधकाव्यं प्रसिद्धम्। रामायणमाश्रित्य इदं काव्यं लिखितम्। चतुर्षु काण्डेषु च विभक्तं वर्तते। एवं नारायणभट्टस्य धातुकाव्यम् इत्यादिकमपि प्रसिद्धं वर्तते।