पारम्परिकज्ञानस्य प्रामाणिकं स्थानम्

मुनित्रयम् : पाणिनिःअष्टाध्यायी

पाणिनेः ग्रन्थः ‘अष्टाध्यायी’ इति नाम्ना प्रसिद्धः। संस्कृतव्याकरणस्य अवगमने आधारभूतः ग्रन्थः अयम् अस्ति। अष्टाध्याय्याः अष्टकम्[1], अष्टिका[2], शब्दानुशासनम्[3], वृत्तिसूत्रम्[4], मूलसूत्रम्[5] इति नामानि अपि वर्तन्ते।

अस्मिन् ग्रन्थे अष्ट अध्यायाः सन्ति। अतः अस्य ग्रन्थस्य ‘अष्टाध्यायी’[6] इति नाम। प्रत्येकम् अपि अध्यायः चतुर्षु पादेषु विभक्तः वर्तते। अतः संहत्य ३२ पादाः भवन्ति। अस्मिन् ग्रन्थे शब्दानाम् अवगमनार्थम् अपेक्षिताः विषयाः सूत्ररूपेण उक्ताः। अल्पैः अक्षरैः विषयस्य निरूपणं येन क्रियते तत् सूत्रम्। अष्टाध्याय्यां ३९७८ सूत्राणि वर्तन्ते। सूत्रसंख्याविषये मतभेदः अपि अस्ति।

सूत्रं कीदृशं भवेत् इत्ययं विषयः एवमुक्तः पण्डितैः – अक्षराणाम् अल्पता, सन्देहराहित्यं, सारभूतत्वं, वक्तव्यानां सर्वेषां विषयाणां निरूपणम्, अर्थरहितानाम् अक्षराणाम् अभावः, दोषरहितत्वम् एते अंशाः यत्र भवन्ति तत् सूत्रम्[7] इति।

मुनित्रयम् : कात्यायनः (वररुचिः) – वार्तिकम्

        पाणिनेः सूत्रेषु उक्तानां विषये चिन्तनम् अनुक्तानां विषयाणां पूरणं च कात्यायनेन कृतम्[8]। वररुचिः इति अस्यैव अन्यत् नाम। अनेन सूत्राणां वार्तिकानि लिखितानि। यत्र उक्तस्य अनुक्तस्य दुरुक्तस्य च चिन्तनं क्रियते तत् वार्तिकमिति व्यवह्रियते। अयं दक्षिणभारतीयः इति श्रूयते। वार्तिकानां कश्चन ग्रन्थः पृथक्तया सम्प्रति नोपलभ्यते। भाष्यकारेणैव सूत्राणां व्याख्यानावसरे वार्तिकानि अपि उद्धृतानि सन्ति।

मुनित्रयम् : पतञ्जलिः महाभाष्यम्  

पाणिनेः सूत्राणां कात्यायनस्य वार्तिकानां च उपरि विस्तृतं व्याख्यानं पतञ्जलिना कृतम्। पतञ्जलेः व्याख्यानं ‘महाभाष्यम्’ इति पदेन प्रसिद्धं वर्तते। महाभाष्ये ८५ अध्यायाः वर्तन्ते। ते ‘आह्निकम्’ इति कथ्यन्ते। पाणिनेः सूत्राणि, कात्यायनस्य वार्तिकानि, पतञ्जलेः महाभाष्यम् इत्येतत्त्रयं संहत्य संस्कृतव्याकरणं भवति। अतः संस्कृतव्याकरणं त्रिभिः मुनिभिः कृतम्।

पाणिनेः सूत्राणाम् अर्थः कात्यायनस्य वार्तिकेन पतञ्जलेः भाष्येण च अवगन्तव्यः। यदि सूत्राणाम् अर्थस्य विषये वार्तिकस्य मते भाष्यस्य मते च विरोधः अस्ति तर्हि भाष्ये उक्तम् एव प्रमाणम्। अतः ‘यथोत्तरं मुनीनां प्रामाण्यम्’ इति वाक्यं व्याकरणग्रन्थेषु दृश्यते।

कैयटोपाध्यायःमहाभाष्यप्रदीपः  (महाभाष्यस्य व्याख्यानम्)

        कैयटः महाभाष्यार्थस्य अवगमनार्थं ‘महाभाष्यप्रदीपः’ इति व्याख्यानम् अलिखत्। कैयटः काश्मीरप्रदेशीयः आसीत् इति सम्भाव्यते। महाभाष्यार्थस्य विवेचनमनेन व्याख्याने क्रियते। इदं व्याख्यानं मतान्तराणां विवेचनं भाष्यपङ्क्तीनां गूढार्थस्य उपस्थापनं च करोति। अतः भाष्याध्येतॄणां अतीव उपकारं करोति।

नागेशभट्टःभाष्यप्रदीपोद्द्योतः (महाभाष्यस्य प्रदीपस्य च व्याख्यानम्)

        नागेशभट्टः महाराष्ट्रस्य सतारा जनपदस्य निवासी आसीत्। अयं भाष्यस्य प्रदीपस्य च उपरि ‘भाष्यप्रदीपोद्द्योतः’ इति व्याख्यानम् अलिखत्। नूतना शैली नूतनविचारक्रमः च अनेन स्वस्य ग्रन्थे अनुसृता। अतः अयं ‘नवीनवैयाकरणः’ इति परिगण्यते। एतस्मात् प्राचीनाः कैयटः भट्टोजिदीक्षितः इत्यादयः ‘प्राचीनवैयाकरणाः’ इति कथ्यन्ते। इदमपि महाभाष्यस्य अत्यन्तं प्रधानं व्याख्यानम्।

[1]अष्टौ अध्यायाः परिमाणम् अस्य सूत्रस्य इत्यष्टकम्। ‘संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु’ (५/१/५८) इति सूत्रेण कन्प्रत्ययः – काशिका (५/१/४८)

[2] अष्टिका पाणिनीयाष्टाध्यायी – बालमनोरमाव्याख्या।

[3]महाभाष्यस्य आदिमे वाक्ये – ‘अथेत्ययं शब्दः अधिकारार्थः प्रयुज्यते। शब्दानुशासनं नाम शास्त्रम् अधिकृतं वेदितव्यम्’। तत्रैव कैयटः – ‘व्याकरणस्य चेदमन्वर्थं नाम शब्दानुशासनम् इति’।

[4]महाभाष्ये स्थानद्वये उपलभ्यते। (समर्थः पदविधिः २/१/१; अनेकमन्यपदार्थे २/२/२४) तथा च भाष्यम् – ‘न ब्रूमः वृत्तिसूत्रवचनप्रामाण्यादिति। किं तर्हि? वार्तिकप्रामाण्यादिति’

[5]तैत्तिरीयप्रातिशाख्यटीकायां पाणिनीयाष्टाध्याय्याः मूलशास्त्रपदेन व्यवहारः कृतः। तद्यथा – ‘मूलशास्त्रे तु अवर्णपूर्वस्यापि कस्यचिद् रो रि इति लोपः स्मर्यते’। तैत्तिरीयप्रातिशाख्यम् – ८/६

[6] अष्टानाम् अध्यायानां समाहारः। समाहारद्वन्द्वः। तद्धितार्थोत्तरपदसमाहारे च २/१/५१

[7] अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम्। अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥ – प्राचीनकारिका।

[8] उक्तानुक्तदुरुक्तानां चिन्ता यत्र प्रवर्तते। तं ग्रन्थं वार्तिकं प्राहुः वार्तिकज्ञाः विचक्षणाः ॥ – प्राचीनकारिका।