पारम्परिकज्ञानस्य प्रामाणिकं स्थानम्

आर्थिकग्रन्थाः

        येषु ग्रन्थेषु शब्दरूपाणां सिद्धेः प्रक्रिया वर्तते ते प्रक्रियाग्रन्थाः । येषु ग्रन्थेषु शब्दार्थस्य विचारः कृतः ते आर्थिकग्रन्थाः इति कथ्यन्ते । तेषु प्रधानाः ग्रन्थाः एवं वर्तन्ते –

भर्तृहरिःवाक्यपदीयम्

        भर्तृहरेः वाक्यपदीयं व्याकरणे प्रसिद्धः ग्रन्थः। अयं सी.ई ७ शताब्दस्य मध्यभागे आसीत्। अस्मिन् ग्रन्थे व्याकरणस्य दार्शनिकविचाराः वर्तन्ते। वाक्यपदीयस्य प्रसिद्धं व्याख्यानं तु –

  • हेलाराजस्य – हेलाराजीयम्
  • रघुनाथशर्मणः – अम्बाकर्त्री

भट्टोजिदीक्षितः वैयाकरणसिद्धान्तकारिकाः

        भट्टोजिदीक्षितेन वैयाकरणसिद्धान्तकारिकाः लिखिताः। अत्र विचाराः श्लोकरूपेण वर्तन्ते। एताः कारिकाः (कारिकाः = श्लोकाः) शब्दकौस्तुभं च अवलम्ब्य कौण्डभट्टेन ग्रन्थः लिखितः। स च ग्रन्थः –

कौण्डभट्टःवैयाकरणसिद्धान्तभूषणसारः

कौण्डभट्टः भट्टोजिदीक्षितस्य भ्रातुः पुत्रः। अस्य कालः सी.ई १७ शताब्दः आसीत्। अस्य वैयाकरणसिद्धान्तभूषणसारः आर्थिकग्रन्थेषु अत्यन्तं प्रसिद्धः वर्तते ।

नागेशभट्टःलघुमञ्जूषा, परमलघुमञ्जूषा

एवं नागेशभट्टेन ग्रन्थद्वयं लिखितम्। तौ च –

  • लघुमञ्जूषा
  • परमलघुमञ्जूषा

इत्येवम् एते व्याकरणशास्त्रस्य परम्परायां प्रसिद्धाः प्राचीनाः ग्रन्थाः। अन्ये अनेके ग्रन्थाः व्याख्यानानि च वर्तन्ते । एते सर्वे अपि ग्रन्थाः सूत्राणां भाष्यस्य च सम्यक् अवगमने साहाय्यं कुर्वन्ति। पाणिन्यादीनां कालदेशादिविषये मतभेदाः वर्तन्ते। अतः तेषां कालादिकम् अत्र न उक्तम्। कस्य अपेक्षया कः पूर्वम् आसीत् इति ज्ञानेन इष्टं सिद्ध्यति ।