पारम्परिकज्ञानस्य प्रामाणिकं स्थानम्

प्रवेशः

संस्कृतव्याकरणस्य परम्परा २००० वर्षेभ्यः अपि प्राचीना वर्तते। वेदाङ्गभूतस्य व्याकरणशास्त्रस्य परम्परायां बहवः वैयाकरणाः आसन्। किन्तु तेषु व्याकरणशास्त्रस्य कुलगुरुत्वेन प्रसिद्धः पाणिनिः। तेन संस्कृतव्याकरणपरम्परायां प्रसिद्धः ग्रन्थः अष्टाध्यायी लिखिता। तदुत्तरं तदाश्रित्य एव प्राधान्येन ग्रन्थाः रचिताः। पाण्युत्तरकाले तेन संक्षेपेण लिखितस्य ग्रन्थस्य व्याख्यानादिकं बहुभिः विद्वद्भिः कृतम्। तादृशानां केषाञ्चित् पण्डितानां, तेषां ग्रन्थस्य च परिचयः अस्मिन् प्रकरणे कार्यते। एतेन व्याकरणशास्त्रस्य परम्परा ज्ञाता भवति।

किं नाम व्याकरणम् ?

येन शास्त्रेण साधवः शब्दाः ज्ञाप्यन्ते तत् शास्त्रं व्याकरणम्[1]। साधूनां शब्दानां ज्ञानार्थं शब्दस्य स्वरूपम् अवगन्तव्यं भवति। शब्दस्वरूपस्य अवगमने व्याकरणं सहकरोति।

संस्कृतव्याकरणे पाणिनेः नाम प्रसिद्धम्। व्याकरणशास्त्रे तेन रचितः ग्रन्थः अष्टाध्यायी अद्यत्वे प्रमाणम् अस्ति। पाणिनेः प्राक् अनेके वैयाकरणाः आसन्। पाणिनेः ग्रन्थे एव आपिशलिः, काश्यपः, गार्ग्यः, गालवः, चाक्रवर्मणः, भारद्वाजः, शाकटायनः, शाकल्यः, सेनकः, स्फोटायनः इत्येतेषां प्राचीनवैयाकरणानां नाम श्रूयते। एतान् अतिरिच्य अन्येऽपि वैयाकरणाः पाणिनेः पूर्वम् आसन्। पाणिनिः सर्वेषां विचारं सङ्गृह्य, वैदिकीं लौकिकीं च भाषां परिशील्य अष्टाध्यायीम् अकरोत्। अतः पाणिनेः ग्रन्थः प्रसिद्धः अभवत्।

इतः परं व्याकरणशास्त्रस्य परम्परायाः विषये किञ्चित् उच्यते।

व्याकरणशास्त्रस्य मूलप्रवर्तकत्वेन ब्रह्मा श्रूयते ऋक्तन्त्रप्रातिशाख्ये ।

तद्यथा –

‘ब्रह्मा बृहस्पतये प्रोवाच, बृहस्पतिरिन्द्राय, इन्द्रो भरद्वाजाय, भरद्वाज ऋषिभ्यः, ऋषयो ब्राह्मणेभ्यः तं खल्विमम् अक्षरसमाम्नायमित्याचक्षते’[2] इति ।

एवं ब्रह्मणा प्रवर्तिते अस्मिन् व्याकरणशास्त्रे आसन् बहवः आचार्यतल्लजाः, ये तत्तत्कालापेक्षितगुणाधानं शास्त्रेऽस्मिन् अकुर्वन्। अस्यां शाब्दिकतल्लजानाम् आवल्यां प्रथितयशाः अल्पभिः सूत्रैः लौकिकवैदिकशब्दयोः परामृष्टा आचार्यः पाणिनिः अन्यतमः ।

भगवान् महेश्वरः

पाणिनिः भगवतः महेश्वरस्य प्रसादात् १४ सूत्राणि प्राप्तवान्[3]  श्रूयते। तानि माहेश्वरसूत्राणि इति कथ्यन्ते। तेषां सूत्राणां साहाय्येन अष्टाध्यायी रचिता इति व्याकरणसम्प्रदाये प्रसिद्धिः। 

[1] ऋक्तन्त्रप्रातिशाख्यम् – १/४

[2] व्याक्रियते अनेन इति व्याकरणम्। करणे ल्युट्प्रत्ययः। ( करणाधिकरणयोश्च – ३/३/११७)

[3] नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम्। उद्धर्तुकामः सनकादिसिद्धान् एतद्विमर्शे शिवसूत्रजालम् ॥ नन्दिकेश्वरकाशिका – १