पारम्परिकज्ञानस्य प्रामाणिकं स्थानम्
व्याकरणशास्त्रस्य अध्ययनम् अष्टाध्यायीक्रमेण प्रक्रियाक्रमेण च प्रवर्तते परम्परायाम्। अतः प्रकारद्वयमपि आश्रित्य अत्र विषयाः निरूपिताः सन्ति। तत्रादौ व्याकरणसम्प्रदायस्य आपततः परिचयः।

व्याकरणस्य स्थानम्

‘धर्मो विश्वस्य जगतः प्रतिष्ठा लोके धर्मिष्ठं प्रजा उपसर्पन्ति
धर्मेण पापमपनुदति धर्मे सर्वं प्रतिष्ठितं तस्माद्धर्मं परमं वदन्ति ॥[1]

समस्तजगद्विधारकस्य अभ्युदयनिश्श्रेयसफलस्य प्रवृत्तिनिवृत्तिरूपस्य धर्मस्य ज्ञानं वेदात् भवति । वेदार्थाध्यवसायश्च शिक्षादीनां[2] षडङ्गानाम् अध्ययनमन्तरा न सिद्ध्यति ।

किमर्थम् अङ्गेषु व्याकरणस्य प्राधान्यम्?

तेषु च अङ्गेषु प्रधानं व्याकरणम्[3] । उक्तं च भाष्ये – ‘प्रधानं च षट्सु अङ्गेषु व्याकरणम् । प्रधाने कृतः यत्नः फलवान् भवति’ इति। भर्तृहरिरपि आह ब्रह्मकाण्डे –

‘प्रथमं छन्दसामङ्गं प्राहुर्व्याकरणं बुधाः’[4] । इति ।

कैयटश्च व्याकरणस्य प्राधान्ये निदानमित्थमाह – ‘वाक्यवाक्यार्थाध्यवसायस्य पदपदार्थावगमनिमित्तत्वात्, तस्य च व्याकरणनिमित्तत्वात् व्याकरणस्य प्राधान्यम्’[5] इति ।

वाक्यपदीये च –

अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम् ।

तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते ॥[6]

तद्द्वारमपवर्गस्य वाङ्मलानां चिकित्सितम् ।

पवित्रं सर्वविद्यानामधिविद्यं प्रकाशते ॥[7]

इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः ।[8] इति।

व्याकरणम् इत्यस्य कः अर्थः?

वि, आङ् इति उपसर्गद्वयपूर्वककृधातोः करणे ल्युट्प्रत्ययेन[9] निष्पन्नः व्याकरणशब्दः, व्याक्रियन्ते व्युत्पाद्यन्ते शब्दाः अनेन इति व्युत्पत्त्या साधुशब्दविधायके शास्त्रे रूढः वर्तते ।

शब्दानुशासनम्[10] इति अस्य अपरं नाम। अनुशिष्यन्ते असाधुशब्देभ्यः विविच्य ज्ञाप्यन्ते अनेन[11] इति करणव्युत्पत्त्या[12] असाधुशब्दविवेकफलकसाधुशब्दानाम् अनुशासनमेव अस्य शास्त्रस्य साक्षात् प्रयोजनम् इति गम्यते ।

उक्तं च हरिणा –

साधुत्वज्ञानविषया सैषा व्याकरणस्मृतिः ॥[13] इति ।

अतः साधुशब्दपरिज्ञानार्थम् इदं शास्त्रमवश्यमध्येयम् । श्रूयते च –

यद्यपि बहुनाधीषे तथापि पठ पुत्र व्याकरणम् ।

स्वजनः श्वजनो मा भूत् सकलं शकलं शकृच्छकृत् ॥[14] इति ।

तस्मात् साधुशब्दानाम् अनुशासनमेव अस्य शास्त्रस्य साक्षात् प्रयोजनम्। साधुशब्दानाम् अनुशासनस्य प्रयोजनानि तु रक्षोहादीनि ।[15]

मूलोद्धरणम्

[1] तैत्तिरीयारण्यकम् – ४/१०१

[2] शिक्षा व्याकरणं छन्दो निरुक्तं ज्यौतिषं तथा । कल्पश्चेति षडङ्गानि वेदस्याहुर्मनीषिणः – अमरकोषः – १८२

[3] महाभाष्यम् – भागः १, पृ.संख्या २३

[4] वाक्यपदीयम् – ११

[5] महाभाष्यम् – प्रदीपः, भागः १, पृ.संख्या २४

[6] वाक्यपदीयम् – १/१३, जात्यादिप्रवृत्तिनिमित्तानाम् अवबोधने शब्दाः एव समर्थाः । तेषां शब्दानां तत्त्वावबोधः व्याकरणमन्तरा न भवति ।

[7] वाक्यपदीयम् – १/१४, व्याकरणं मोक्षस्य द्वारभूतम् । वाचः दोषानां निवारकम् । सर्वासु विद्यासु पवित्रम् । सर्वास्वपि विद्यासु प्रकाशते च ।

[8] वाक्यपदीयम् – १/१६, व्याकरणं मुक्षेच्छूनां अकुटिलः राजमार्गः ।

[9] करणाधिकरणयोश्च (३/३/११७)

[10]‘शब्दानुशासनं नाम शास्त्रम् अधिकृतं वेदितव्यम्’ – महाभाष्यम् – भागः १, पृ.संख्या ५

[11] महाभाष्यम् – उद्योतः, भागः १, पृ.संख्या ८

[12] करणाधिकरणयोश्च (३/३/११७)

[13] वाक्यपदीयम् – १/१५८

[14] सुभाषितरत्नभाण्डागारः – वैयाकरणप्रशंसा, श्लो.संख्या २

[15] रक्षोहागमलघ्वन्देहाः व्याकरणस्य प्रयोजनम् – पृ.संख्या २०, ‘प्रयोजनप्रयोजनानि तु रक्षोहादीनि पश्चाद्वक्ष्यन्ते’ – महाभाष्यम् – प्रदीपः , भागः १, पृ.संख्या 5