पारम्परिकज्ञानस्य प्रामाणिकं स्थानम्

चिकीर्षितम्

किं भावयेत्?

व्याकरणशास्त्रस्य परम्परा प्रवहति अनूचानक्रमेण दीर्घेण कालेन। इयं परम्परा सुरक्षिता गुरुशिष्यपरम्परया, नैकग्रन्थानां रचनया, प्रतिसूत्रम् उक्तानुक्तदुरुक्तचिन्तनेन च।  श्रुतिमूला इयं परम्परा प्राधान्येन गुरुमुखाध्ययनाध्यपनक्रमाश्रिता इत्यतः, ग्रन्थेषु अननुबद्धाः, अनुबद्धाः चेदपि बीजरूपेण एव उक्ताः अनेके विचाराः प्रवहन्तो वर्तन्ते अद्यापि साम्प्रदायिकपठनपाठनपरम्परायाम्। ग्रन्थानाम् अनेकत्वात्, प्रतिसूत्रम् आमूलचूलं विचारितत्वात् च,  परम्पराम् अननुप्रविश्य दुर्विज्ञेयः शास्त्रार्थः।

एवं स्थिते, ये शास्त्रर्थं जिज्ञासन्ते, पारम्परिकव्यवस्थां च प्रवेष्टुम् असमर्थाः तेभ्यः कः तर्हि प्राप्त्युपायः पारम्परिकज्ञानस्य?

ये भारतीयपरम्परायाम् आदरवन्तः, शास्त्ररक्षणासक्ताः किं तेषाम् इदं कर्तव्यं न, यत् पारम्परिकविज्ञानस्य एकत्र सङ्ग्रहः, सर्वेभ्यः तत्प्रवेशद्वारोद्घाटनं च इति? यदीदं न क्रियते, तर्हि परम्परायाः एव हानिः स्यात्। अतः इदमस्ति आद्यं कर्तव्यम्। यदेतावता कालेन महता क्लेशेन रक्षितम् अस्मत्पूर्वजैः तस्य परिरक्षणं वर्धनं जनिष्यमाणसन्तत्यै प्रदानं च इति।

अलब्धं चैव लिप्सेत लब्धं रक्षेत् अपक्षयात्।

रक्षितं वर्धयेत् सम्यक् वृद्धं तीर्थेषु निक्षिपेत्॥

अयमेव ब्रह्मयज्ञः। अयमेव स्वाध्याययज्ञः। अस्याः यज्ञप्रक्रियायाः याजमान्यं वहति इदं जालस्थानम्।

सत्सु नैकेषु शास्त्रेषु परिरक्षणीयेषु, पाणिनीयव्याकरणस्य सर्वशास्त्रोपकारकत्वेन प्रसिद्धत्वात् तज्ज्ञानस्य एकत्र रक्षणार्थम् सर्वेभ्यः तद्वारस्य उद्घाटनार्थं च अयं कश्चन यत्नः।

केन भावयेत्?

पूर्वोक्तलक्ष्यस्य प्राप्तिः केन साधनेन भवति? जालस्थानमेव साधनम्। अस्मिन् जालस्थाने एतानि कार्याणि चिकीर्षितानि सन्ति –

  • प्रक्रियाक्रमेण प्रकरणशः (सन्धिः इत्यादि) सामस्त्येन विचाराणाम् उपस्थापनम्। तत्रापि स्तरद्वयं विविदिषास्तरः (प्राथमिकस्तरः), विद्वत्स्तरः इति। प्रथमस्तरे परिचयात्मकतया विचारः, द्वितीयस्तरे सामस्त्येन विचारः।

  • पारम्परिकविदुषां लेखनानि –  

    • अन्यत्र प्रकाशितानां सङ्ग्रहः।

    • नूतनलेखनानां च योजनम्।

  • पारम्परिकग्रन्थानां पाठाः – सिद्धान्तकौमुदी, लक्ष्यप्रधानकाव्यानि, प्रौढमनोरमा परिभाषेन्दुशेखरः इत्यादिग्रन्थानां पाठानां (pre-recorded Video) सज्जीकरणं जालस्थाने योजनम्।

  • अष्टाध्यायीसूत्रक्रमेण प्रत्येकं सूत्रस्य निर्णयात्मकं व्याख्यानम्। प्रौढमनोरमादिषु चर्चितान् विषयान् अन्तर्भाव्य व्याख्यानम्।

  • प्रश्नोत्तरम् –

    • व्याकरणसम्बद्धप्रश्नानाम् उत्तराणाम् एकत्र सङ्ग्रहः।

    • प्रश्नान् प्रष्टुम् अवकाशः।

  • अन्यानि च सम्बद्धकार्याणि – तद्यथा सूत्राणाम् उदाहरणानि काव्यदितः इत्यादि।

कथं भावयेत्?

इदं कार्यं पारम्परिकविदुषां सहकारेण क्रियते। एते उपायाः अत्र चिन्तिताः –

व्याकरणशास्त्रस्य गोष्ठ्यां चर्चितानां विषयाणां सङ्ग्रहः, लेखरूपेण उपस्थापनम्।

ये प्रश्नाः अत्र योज्यन्ते तेषाम् उत्तरं विदुषां मार्गदर्शनं प्राप्य योजनम्।

विद्वद्भिः सह संवादेन प्रत्येकं सूत्रस्य प्रकरणस्य च तत्त्वं विज्ञाय उल्लेखनम्।