व्याकरणपरिचयः

प्रवेशः

          भाषायां वर्णाः पदं वाक्यम् इत्येवम् अनेके अंशाः भवन्ति। प्रायः प्रत्येकं भाषायामपि वर्णानां संख्या तेषाम् उच्चारणक्रमः च विभिन्नः भवति। अस्मिन् पाठे संस्कृते विद्यमानान् वर्णान् तेषां भेदान् वर्णोच्चारणस्थानानि च जानीमः।  

शब्दानाम् उत्पत्तिः

          रामः कृष्णः इत्यादीनां शब्दानाम् उत्पत्तेः क्रमः कः ? तत्र अयं क्रमः शिक्षाग्रन्थेषु उल्लिख्यते - [1]आदौ मनसि इच्छा उदेति ‘इदं मया वक्तव्यम्’ इति। यदा इच्छा उत्पद्यते तदा वायुः प्रेरितः भवति। सः वायुः कण्ठादिषु संस्कारं प्राप्य शब्दान् उत्पादयति। एतादृशं शब्दं वयं श्रोतुं शक्नुमः। यां वाचं वयं श्रुणुमः सा वाक् ‘वैखरी’ इति कथ्यते। वैखरी इति वाचः अत्यन्तं स्थूलं रूपम्। परा, पश्यन्ती, मध्यमा इति सूक्ष्माणि रूपाणि अपि वाचः वर्तन्ते।

वर्णानां संख्या

प्रायः[2] अर्थबोधकः वर्णसमूहः पदम्। तद्यथा रामः इति। पदसमूहः वाक्यं भवति। पदस्य अवयवाः वर्णाः[3] तद्यथा रामः इति पदस्य अवयवाः ‘र्,आ,म्,अ,ः’ इत्येते वर्णाः।  वर्णः एव अक्षरम्।[4] मातृका इति अपि अस्यैव नामान्तरम्। संस्कृते प्रायः नवपञ्चाशत् (५९) वर्णाः उपयुज्यन्ते।[5]

त्रिविधाः वर्णाः

स्वराः (२२)

स्वतन्त्रतया उच्चार्यमाणाः वर्णाः स्वराः इति कथ्यन्ते। अर्थात् स्वराणाम् उच्चारणार्थं व्यञ्जनानाम् अपेक्षा न भवति। किन्तु स्वरैः विना व्यञ्जनानां ‘क्, च्, ट्, त्, प् इत्येवम् उच्चारणं क्लिष्टं भवति। क, च, ट, त, प इत्येवं स्वरैः सह उच्चारणं सुलभम्।  ते च स्वराः त्रिविधाः ह्रस्वाः दीर्घाः प्लुताः इति। एकमात्राकालेन[1] ये स्वराः उच्चार्यन्ते ते ह्रस्वाः इति, द्विमात्राकालेन ये स्वराः उच्चार्यन्ते ते दीर्घाः इति, प्रायः त्रिमात्राकालेन ये स्वराः उच्चार्यन्ते ते प्लुताः इति कथ्यन्ते। कुक्कुटस्य रुतेन एकमात्रादिकालानाम् अवगमनं सुलभम्।[2] ह्रस्वदीर्घप्लुतसदृशः स्वरः कुक्कुटस्य रुते श्रूयते। 

तत्र ए ऐ ओ औ एतेषां वर्णानां ह्रस्वः नास्ति। ऌकारस्य दीर्घः नास्ति। अतः संहत्य द्वाविंशतिः स्वराः भवन्ति।

उदात्तःअनुदात्तःस्वरितः[1]

         सर्वे स्वराः पुनः त्रिधा विभक्ताः उदात्ताः अनुदात्ताः स्वरिताः इति। एते वेदे प्रसिद्धाः। वेदपुस्तकेषु एतान् चिह्नद्वयेन दर्शयन्ति।

  • यदि किमपि चिह्नं नास्ति तर्हि तत्र उदात्तस्वरः। तद्यथा अ, इ, उ
  • यदि अक्षराणामधः रेखा अस्ति तर्हि अनुदात्तस्वरः। तद्यथा अ॒, इ॒, उ॒
  • यदि अक्षराणाम् उपरि रेखा अस्ति तर्हि स्वरितस्वरः। तद्यथा अ॑, इ॑, उ॑

वैदिकम् उदाहरणं यथा – शं नो॑ मि॒त्रः शं वरु॑णः। शं नो॑ भवत्वर्य॒मा।[2]

         अस्मिन् मन्त्रे ‘शम्’ (श्++म्) इत्यत्र विद्यमानः अकारः उदात्तः, ‘नो’ (न्+) इत्यत्र विद्यमानः ओकारः स्वरितः, ‘मि’ (म्+) इत्यत्र विद्यमानः इकारः अनुदात्तः, ‘त्र’ (त्+र्+) इत्यत्र विद्यमानः अकारः उदात्तः। एवमन्यत्र अपि ।

अनुनासिकःअननुनासिकः[3]

         पुनः सर्वे स्वराः द्विधा विभक्ताः अनुनासिकाः अननुनासिकाः इति। नासिकायाः साहाय्येन उच्चार्यमाणाः स्वराः अनुनासिकाः। तद्यथा अ̐ इ̐ उ̐ इत्यादि। अनुनासिकः इति दर्शयितुम् ‘ ̐’ चिह्नम् उपयुज्यते। नासिकायाः साहाय्यं विना उच्चार्यमाणाः स्वराः अननुनासिकाः। तद्यथा अ इ उ इत्यादि।  एवं च स्वरवर्णेषु एतावन्तः प्रकाराः भवन्ति –

इत्थं ह्रस्वः दीर्घः प्लुतः एकैकः अपि षोढा विभक्तः। ह्रस्वः उदात्तः अनुनासिकः, ह्रस्वः उदात्तः अननुनासिकः, दीर्घः उदात्तः अनुनासिकः, दीर्घः उदात्तः अननुनासिकः इत्येवं क्रमेण एकैकस्य १८ भेदाः भवन्ति। तत्र अ इ उ ऋ एतेषां वर्णानां १८ भेदाः वर्तन्ते। ऌकारस्य १२ भेदाः एव। दीर्घस्य ऌकारस्य अभावात् दीर्घस्य षड्भेदाः न वर्तन्ते। ए ओ ऐ औ एतेषामपि १२ एव भेदाः तेषां ह्रस्वाभावात्।

व्यञ्जनानि (३३)

व्यञ्जनानि द्विविधानि। वर्गीयव्यञ्जनानि अवर्गीयव्यञ्जनानि इति। पञ्चसु वर्गेषु यानि व्यञ्जनानि विभक्तानि तानि वर्गीयव्यञ्जनानि इति कथ्यन्ते। अन्यानि अवर्गीयव्यञ्जनानि।

यद्यपि ‘क्’ इत्येव वर्णः। तथापि स्वरं विना व्यञ्जनस्य उच्चारणं प्रायः न भवति[1] इत्यतः अकारेण सह ‘क’ इत्यादिक्रमेण व्यञ्जनानि लिख्यन्ते।

व्यञ्जनेषु य व ल एतेषां त्रयाणाम् अनुनासिकभेदाः[2] अपि वर्तन्ते। यँ  वँ लँ एते वर्णाः अपि सन्ति। अतः य, व, ल एते त्रयः वर्णाः अनुनासिकाः अपि सन्ति अननुनासिकाः अपि। अन्येषु हल्वर्णेषु एवं विभागः नास्ति।

 

अयोगवाहाः[1] ()

अयोगवाहाः चत्वारः।[2] ते च -

उच्चारणस्थानानि

एतेषां वर्णानाम् उच्चारणं सप्तसु स्थानेषु भवति। यस्मिन् प्रदेशे वर्णः अभिव्यज्यते सः प्रदेशः स्थानम् इति कथ्यते।

सप्त स्थानानि च[1] – कण्ठः (स्निग्धतालु), तालु, मूर्धा, दन्ताः, ओष्ठौ, नासिका, उरः इति।

 

आभ्यन्तरयत्नाः

इत्येवं स्थानानि उक्तानि। वर्णोत्पत्त्यर्थम् एतैः स्थानैः प्रायः जिह्वायाः सन्निकर्षः अपेक्षितः। अयं सन्निकर्षः चतुर्धा विभक्तः वर्तते – स्पृष्टः ईषत्स्पृष्टः विवृतः ईषद्विवृतः इति। एते आभ्यन्तरयत्नाः इति कथ्यन्ते।  

तत्र एवं व्यवस्था –

 

 


[1] अष्टौ स्थानानि वर्णानाम् उरः कण्ठः शिरस्तथा। जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च। पाणिनीयशिक्षा १३


[1] माहेश्वरसूत्रे अनुक्तत्वात् अयोगाः प्रयोगं वहन्ति निर्वहन्ति इत्यतः वाहाः। अयोगाश्च ते वाहाश्च अयोगवाहाः।

[2] क, प इति कपाभ्यां प्रागर्धविसर्गसदृशौ जिह्वामूलीयोपध्मानीयौ। अं अः इत्यचः परावनुस्वारविसर्गौ। सिद्धान्तकौमुदी सूत्रसंख्या १२

 

 


[1] नान्तरेणाचं व्यञ्जनस्योच्चारणं भवति – महाभाष्यम्, उच्चैरुदात्तः १/२/२९

[2] अनुनासिकाननुनासिकभेदेन यवला द्विधा – सिद्धान्तकौमुदी, अणुदित्सवर्णस्य चाप्रत्ययः १/१/५९, सिद्धान्तकौमुदी सूत्रसंख्या १४


[1] उच्चैरुदात्तः १/२/२९, नीचैरनुदात्तः १/२/३०, समाहारः स्वरितः १/२/३१

[2] तैत्तिरीयोपनिषत्, प्रथमप्रश्ने प्रथमः मन्त्रः

[3] मुखनासिकावचनोऽनुनासिकः १/१/८

 


[1] ऊकालोऽज्झ्रस्वदीर्घप्लुतः १/२/२७

[2] ऊशब्दस्य अत्र कुक्कुटरुतानुकरणत्वात् – बालमनोरमा, ऊकालोऽज्झ्रस्वदीर्घप्लुतः १/२/२७, कौमुदीसंख्या - ४


[1] आत्मा बुद्ध्या समेत्यर्थान् मनो युङ्क्ते विवक्षया। मनः कायाग्निमाहन्ति स प्रेरयति मारुतम्॥ पाणिनीयशिक्षा ६

  मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम्। पाणिनीयशिक्षा ७

[2] एकवर्णात्मकम् अपि पदं भवति अतः प्रायः इत्युक्तम्। तद्यथा ‘अः’ इति पदम्। विष्णुः इत्यर्थः।

[3] श्रवणेन्दियग्राह्यः कण्ठादिस्थानेभ्यः अभिव्यक्तः वर्णः|

[4] स्वरसहितस्य व्यञ्जनस्य अपि अक्षरम् इति व्यवहारः वर्तते। अक्षरम् – व्यञ्जनसहितः अच्। प्रदीपः, यो वा इमाम्, पश्पशाह्निकम्, महाभाष्यम्

[5] वेदे श्रूयमाणाः यमवर्णाः योज्यन्ते चेत् त्रिषष्टिः (६३) वर्णाः भवन्ति। ळकारस्य योजने चतुःषष्टिः (६४) वर्णाः भवन्ति।

Subscribe to my weekly newsletter