व्याकरणपरिचयः

प्रवेशः

संस्कृतव्याकरणस्य परम्परा २००० वर्षेभ्यः अपि प्राचीना वर्तते। संस्कृतव्याकरणस्य आधारभूतः ग्रन्थः अष्टाध्यायी, यः मनुष्यस्य बौद्धिकसामर्थ्यस्य उदाहरणत्वेन अस्ति। संस्कृतव्याकरणशास्त्रस्य संवर्धनं बहुभिः पण्डितैः कृतम्। तादृशानां केषाञ्चित् पण्डितानां, तेषां ग्रन्थस्य च परिचयः अस्मिन् प्रकरणे क्रियते। एतेन व्याकरणशास्त्रस्य परम्परा ज्ञाता भवति।

किं नाम व्याकरणम् ?

         येन शास्त्रेण साधवः शब्दाः ज्ञाप्यन्ते तत् शास्त्रं व्याकरणम्। साधूनां शब्दानां ज्ञानार्थं शब्दस्य स्वरूपम् अवगन्तव्यं भवति। शब्दस्वरूपस्य अवगमने व्याकरणं सहकरोति।

संस्कृतव्याकरणे पाणिनेः नाम प्रसिद्धम्। व्याकरणशास्त्रे तेन रचितः ग्रन्थः अष्टाध्यायी अद्यत्वे प्रमाणम् अस्ति। पाणिनेः प्राक् अनेके वैयाकरणाः आसन्। पाणिनेः ग्रन्थे एव आपिशलिः, काश्यपः, गार्ग्यः, गालवः, चाक्रवर्मणः, भारद्वाजः, शाकटायनः, शाकल्यः, सेनकः, स्फोटायनः इत्येतेषां प्राचीनवैयाकरणानां नाम श्रूयते। एतान् अतिरिच्य अन्येऽपि वैयाकरणाः पाणिनेः पूर्वम् आसन्। पाणिनिः सर्वेषां विचारं सङ्गृह्य, वैदिकीं लौकिकीं च भाषां परिशील्य अष्टाध्यायीम् अकरोत्। अतः पाणिनेः ग्रन्थः प्रसिद्धः अभवत्।

इतः परं व्याकरणशास्त्रपरम्परायाः प्रवर्तकानां संवर्धकानां च विषये जानीमः।

भगवान् महेश्वरः

         पाणिनिः भगवतः महेश्वरस्य प्रसादात् १४ सूत्राणि प्राप्तवान्। तेषां सूत्राणां साहाय्येन अष्टाध्यायी रचिता इति व्याकरणसम्प्रदाये प्रसिद्धिः। अतः भगवान् महेश्वरः पाणिन्युपज्ञस्य व्याकरणशास्त्रस्य आदिमः गुरुः।

मुनित्रयम् : पाणिनिःअष्टाध्यायी

पाणिनेः ग्रन्थः ‘अष्टाध्यायी’ इति नाम्ना प्रसिद्धः। संस्कृतव्याकरणस्य अवगमने आधारभूतः ग्रन्थः अयम् अस्ति। अष्टाध्याय्याः अष्टकम्, अष्टिका, शब्दानुशासनम्, वृत्तिसूत्रम्, मूलसूत्रम् इति नामानि अपि वर्तन्ते।

अस्मिन् ग्रन्थे अष्ट अध्यायाः सन्ति। अतः अस्य ग्रन्थस्य ‘अष्टाध्यायी’ इति नाम। प्रत्येकम् अपि अध्यायः चतुर्षु पादेषु विभक्तः वर्तते। अतः संहत्य ३२ पादाः भवन्ति। अस्मिन् ग्रन्थे शब्दानाम् अवगमने अपेक्षिताः नियमाः सूत्ररूपेण उक्ताः। अल्पैः अक्षरैः विषयस्य निरूपणं येन क्रियते तत् सूत्रम्। अष्टाध्याय्यां ३९७८ सूत्राणि वर्तन्ते। सूत्रसंख्याविषये मतभेदः अपि अस्ति।

सूत्रं कीदृशं भवेत् इत्ययं विषयः एवमुक्तः पण्डितैः - अक्षराणाम् अल्पता, सन्देहराहित्यं, सारभूतत्वं, वक्तव्यानां सर्वेषां विषयाणां निरूपणम्, अर्थरहितानाम् अक्षराणाम् अभावः, दोषरहितत्वम् एते अंशाः यत्र भवन्ति तत् सूत्रम् इति।

मुनित्रयम् : कात्यायनः (वररुचिः) – वार्तिकम्

         पाणिनेः सूत्रेषु उक्तानां विषये चिन्तनम् अनुक्तानां विषयाणां पूरणं च कात्यायनेन कृतम्। वररुचिः इति अस्यैव अन्यत् नाम। अस्य ग्रन्थः ‘वार्तिकम्’ इति व्यवह्रियते। अयं दक्षिणभारतीयः इति श्रूयते। 

मुनित्रयम् : पतञ्जलिः महाभाष्यम्  

पाणिनेः सूत्राणां कात्यायनस्य वार्तिकानां च उपरि विस्तृतं व्याख्यानं पतञ्जलिना लिखितम्। पतञ्जलेः व्याख्यानं ‘महाभाष्यम्’ इति पदेन प्रसिद्धं वर्तते। महाभाष्ये ८५ अध्यायाः वर्तन्ते। ते ‘आह्निकम्’ इति कथ्यन्ते। पाणिनेः सूत्राणि, कात्यायनस्य वार्तिकानि, पतञ्जलेः महाभाष्यम् इत्येतत्त्रयं संहत्य संस्कृतव्याकरणं भवति। अतः संस्कृतव्याकरणं त्रिभिः मुनिभिः कृतम्।

पाणिनेः सूत्राणाम् अर्थः कात्यायनस्य वार्तिकेन पतञ्जलेः भाष्येण च अवगन्तव्यः। यदि सूत्राणाम् अर्थस्य विषये वार्तिकस्य मते भाष्यस्य मते च विरोधः भवति तर्हि भाष्ये उक्तम् एव प्रमाणम्। अतः ‘यथोत्तरं मुनीनां प्रामाण्यम्’ इति वाक्यं व्याकरणग्रन्थेषु दृश्यते।

कैयटोपाध्यायःमहाभाष्यप्रदीपः  (महाभाष्यस्य व्याख्यानम्)

         कैयटः महाभाष्यार्थस्य अवगमनार्थं ‘महाभाष्यप्रदीपः’ इति व्याख्यानम् अलिखत्। कैयटः काश्मीरप्रदेशीयः आसीत् इति सम्भाव्यते। महाभाष्यार्थस्य अवगमने इदं व्याख्यानम् अतीव सहकरोति।

नागेशभट्टःभाष्यप्रदीपोद्द्योतः (महाभाष्यस्य प्रदीपस्य च व्याख्यानम्)

         नागेशभट्टः महाराष्ट्रस्य सताराजनपदस्य निवासी सी.ई १८ शताब्दे आसीत्। अयं भाष्यस्य प्रदीपस्य च उपरि ‘भाष्यप्रदीपोद्द्योतः’ इति व्याख्यानम् अलिखत्। नूतना शैली अनेन स्वस्य ग्रन्थे अनुसृता। अतः अयं ‘नवीनवैयाकरणः’ इति परिगण्यते। एतस्मात् प्राचीनाः कैयटः भट्टोजिदीक्षितः इत्यादयः ‘प्राचीनवैयाकरणाः’ इति कथ्यन्ते। इदमपि अत्यन्तं प्रधानं व्याख्यानम्।

वृत्तिग्रन्थाः

         सूत्रार्थस्य अवगमनार्थं वार्तिके महाभाष्ये च चर्चितानां विषयाणां सुलभतया ज्ञानार्थं च कैश्चित् ग्रन्थाः लिखिताः। ते ग्रन्थाः ‘वृत्तिः’ इति पदेन व्यवह्रियन्ते। तेषु काशिकावृत्तिः, शब्दकौस्तुभः च प्रधानौ।

आचार्यः वामनः, आचार्यः जयादित्यः - काशिकावृत्तिः

वामनः जयादित्यः च आभ्यां लिखिता काशिकावृत्तिः। वृत्तिग्रन्थेषु ‘काशिकावृत्तिः’ प्राचीना प्रसिद्धा च। काशिकायाः रचनं ७ शताब्दे अभवत्। काशिकावृत्तौ सूत्राणां विवरणम् अष्टाध्यायीसूत्रक्रमेण वर्तते। काशिकावृत्तेः व्याख्यानद्वयं प्रसिद्धम्। न्यासः (काशिकाविवरणपञ्चिका इति नामान्तरम्) पदमञ्जरी च। जिनेन्द्रबुद्धिः न्यासव्याख्यानम् अलिखत्। इयं काशिकायाः प्राचीना व्याख्या। अस्य कालः सी.ई ७ शताब्दः। हरदत्तमिश्रः पदमञ्जरीव्याख्यानम् अलिखत्। अयं द्रविडदेशीयः सी.ई ११ शताब्दे आसीत्।  

भट्टोजिदीक्षितः - शब्दकौस्तुभः

         अष्टाध्यायीक्रमेण लिखितेषु वृत्तिग्रन्थेषु भट्टोजिदीक्षितस्य शब्दकौस्तुभः अपि प्रसिद्धः। अयं आन्ध्रदेशीयः सी.ई १६ शताब्दे आसीत्। सम्प्रति शब्दकौस्तुभः सम्पूर्णतया न उपलभ्यते। किन्तु भागशः एव प्राप्यते। अत्र अष्टाध्यायीक्रमेण भाष्यवार्तिकगतविचाराः स्वतन्त्रविचाराः च उपस्थापिताः। भट्टोजिदीक्षितः व्याकरणस्य महान् विद्वान् आसीत्। अनेन अनेके ग्रन्थाः व्याकरणसम्बद्धाः लिखिताः। ते च –

  • शब्दकौस्तुभः
  • वैयाकरणसिद्धान्तकारिकाः
  • वैयाकरणसिद्धान्तकौमुदी
  • प्रौढमनोरमा

प्रक्रियाग्रन्थाः

अष्टाध्यायीसूत्रक्रमं परित्यज्य रूपसिद्धेः बोधनाय सूत्राणि प्रकरणशः विभक्तानि। तद्यथा सन्धिसम्बद्धानि सूत्राणि अष्टाध्याय्यां तत्र तत्र विद्यमानानि सङ्गृह्य सन्धिप्रकरणं कृतम्। एवम् अन्यानि प्रकरणानि रचितानि । एतादृशाः ग्रन्थाः प्रक्रियाग्रन्थाः इति प्रसिद्धाः। तादृशेषु प्रक्रियाग्रन्थेषु वैयाकरणसिद्धान्तकौमुदी लघुसिद्धान्तकौमुदी च प्रधाने ।

प्रक्रियाक्रमेण सूत्राणाम् उपस्थापनस्य आरम्भः धर्मकीर्तिना रूपावतारग्रन्थे कृतः। ततः प्रक्रियाग्रन्थेषु रामचन्द्राचार्यस्य ‘प्रक्रियाकौमुदी’ ग्रन्थः प्रसिद्धः अभवत्। अस्य ग्रन्थस्य प्रेरणया एव भट्टोजिदीक्षितेन सिद्धान्तकौमुदी रचिता। तत्र प्रक्रियाकौमुद्यां विद्यमानाः सैद्धान्तिकदोषाः च परिहृताः।

भट्टोजिदीक्षितः - वैयाकरणसिद्धान्तकौमुदी

         भट्टोजिदीक्षितस्य वैयाकरणसिद्धान्तकौमुदी प्रक्रियाग्रन्थेषु अत्यन्तं प्रसिद्धा। अस्मिन् ग्रन्थे ७३ प्रकरणानि सन्ति। अत्र सर्वाणि अपि अष्टाध्याय्यां विद्यमानानि सूत्राणि व्याख्यातानि। प्राचीनानां व्याख्यानेषु विद्यमानाः दोषाः अस्मिन् ग्रन्थे परिहृताः। तस्मात् व्याकरणस्य अवगमनार्थं सिद्धान्तकौमुदी प्रमाणत्वेन परिगण्यते। सिद्धान्तकौमुद्याः बहूनि व्याख्यानानि सन्ति। स्वयं भट्टोजिदीक्षतेन एव एकं व्याख्यानं लिखितं वर्तते। प्रसिद्धानि व्याख्यानानि इत्थं वर्तन्ते -

  • भट्टोजिदीक्षितस्य - प्रौढमनोरमा 
  • नागेशभट्टस्य - लघुशब्देन्दुशेखरः  
  • वासुदेवदीक्षितस्य - बालमनोरमा  
  • ज्ञानेन्द्रसरस्वतेः - तत्त्वबोधिनी

नागेशभट्टस्य ग्रन्थे व्याख्यानं स्वतन्त्रविचाराश्च वर्तन्ते। नागेशभट्टः भट्टोजिदीक्षितस्य पौत्रस्य शिष्यः आसीत् । प्रौढमनोरमायाः उपरि हरिदीक्षितस्य  ‘शब्दरत्नम्’ इति व्याख्यानं प्रसिद्धं वर्तते।    

वरदराजभट्टाचार्यः - लघुसिद्धान्तकौमुदी

         अष्टाध्याय्यां विद्यमानानि सर्वाणि सूत्राणि सिद्धान्तकौमुद्यां व्याख्यातानि इति उक्तम्। तत्र प्रसिद्धानि १२७५ सूत्राणि संगृह्य वरदराजभट्टाचार्येण ‘लघुसिद्धान्तकौमुदी’ रचिता। अयं सी.ई १७ शताब्दे आसीत्।

नागेशभट्टः परिभाषेन्दुशेखरः

          नागेशभट्टस्य परिभाषेन्दुशेखरः व्याकरणे प्रसिद्धः अपरः ग्रन्थः। अत्र सूत्राणाम् अवगमनार्थम् अपेक्षिताः नियमाः (परिभाषाः) व्याख्याताः सन्ति। अस्मिन् ग्रन्थे १३३ परिभाषाः प्रकरणत्रये विभज्य व्याख्याताः वर्तन्ते।

आर्थिकग्रन्थाः

         येषु ग्रन्थेषु शब्दरूपाणां सिद्धेः प्रक्रिया वर्तते ते प्रक्रियाग्रन्थाः । येषु ग्रन्थेषु शब्दार्थस्य विचारः कृतः ते आर्थिकग्रन्थाः इति कथ्यन्ते । तेषु प्रधानाः ग्रन्थाः एवं वर्तन्ते -

भर्तृहरिः - वाक्यपदीयम्

         भर्तृहरेः वाक्यपदीयं व्याकरणे प्रसिद्धः ग्रन्थः। अयं सी.ई ७ शताब्दस्य मध्यभागे आसीत्। अस्मिन् ग्रन्थे व्याकरणस्य दार्शनिकविचाराः वर्तन्ते। वाक्यपदीयस्य प्रसिद्धं व्याख्यानं तु -

  • हेलाराजस्य - हेलाराजीयम्
  • रघुनाथशर्मणः - अम्बाकर्त्री

भट्टोजिदीक्षितः - वैयाकरणसिद्धान्तकारिकाः

         भट्टोजिदीक्षितेन वैयाकरणसिद्धान्तकारिकाः लिखिताः। अत्र विचाराः श्लोकरूपेण वर्तन्ते। एताः कारिकाः (कारिकाः = श्लोकाः) शब्दकौस्तुभस्थाः इति अङ्गीक्रियन्ते। ताः अवलम्ब्य कौण्डभट्टेन ग्रन्थः लिखितः। स च ग्रन्थः -

कौण्डभट्टः - वैयाकरणसिद्धान्तभूषणसारः

कौण्डभट्टः भट्टोजिदीक्षितस्य भ्रातुः पुत्रः। अस्य कालः सी.ई १७ शताब्दः आसीत्। अस्य वैयाकरणसिद्धान्तभूषणसारः आर्थिकग्रन्थेषु अत्यन्तं प्रसिद्धः वर्तते ।

नागेशभट्टःलघुमञ्जूषा, परमलघुमञ्जूषा

एवं नागेशभट्टेन ग्रन्थद्वयं लिखितम्। तौ च –

  • लघुमञ्जूषा
  • परमलघुमञ्जूषा

इत्येवम् एते व्याकरणशास्त्रस्य परम्परायां प्रसिद्धाः प्राचीनाः ग्रन्थाः। अन्ये अनेके ग्रन्थाः व्याख्यानानि च वर्तन्ते । एते सर्वे अपि ग्रन्थाः सूत्राणां भाष्यस्य वार्तिकानां च सम्यक् अवगमने साहाय्यं कुर्वन्ति। पाणिन्यादीनां कालदेशादिविषये मतभेदाः वर्तन्ते। अतः तेषां कालादिकम् अत्र न उक्तम्। कस्य अपेक्षया कः पूर्वम् आसीत् इति ज्ञानेन इष्टं सिद्ध्यति ।

Subscribe to my weekly newsletter